KRISHNA KUNJ  14/E/63 , Mansarovar  yojna ,sector 1 , Jaipur-302020
+91 9602374878, +919828695888

Chapter11

VishwaRoopDarshanYog

Bhagavad Gita 11.1 : Verse 1:View

अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।

Bhagavad Gita 11.2 : Verse 2:View

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।

Bhagavad Gita 11.3 : Verse 3:View

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।11.3।।

Bhagavad Gita 11.4 : Verse 4:View

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्।।11.4।।

Bhagavad Gita 11.5 : Verse 5:View

श्री भगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।।

Bhagavad Gita 11.6 : Verse 6:View

पश्यादित्यान्वसून्रुद्रानश्िवनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत।।11.6।।

Bhagavad Gita 11.7 : Verse 7:View

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि।।11.7।।

Bhagavad Gita 11.8 : Verse 8:View

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्।।11.8।।

Bhagavad Gita 11.9 : Verse 9:View

सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।

Bhagavad Gita 11.10,11 : Verse 10,11:View

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्।।11.10।।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्।।11.11।।

Bhagavad Gita 11.12 : Verse 12:View

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः।।11.12।।

Bhagavad Gita 11.13 : Verse 13:View

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।।

Bhagavad Gita 11.14 : Verse 14:View

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।।

Bhagavad Gita 11.15 : Verse 15:View

अर्जुन उवाच
पश्यामि देवांस्तव देव देहेसर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्।।11.15।।

Bhagavad Gita 11.16 : Verse 16:View

अनेकबाहूदरवक्त्रनेत्रंपश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिंपश्यामि विश्वेश्वर विश्वरूप।।11.16।।

Bhagavad Gita 11.17 : Verse 17:View

किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतोदीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।।

Bhagavad Gita 11.18 : Verse 18:View

त्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे।।11.18।।

Bhagavad Gita 11.19 : Verse 19:View

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम् स्वतेजसा विश्वमिदं तपन्तम्।।11.19।।

Bhagavad Gita 11.20 : Verse 20:View

द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन्।।11.20।।

Bhagavad Gita 11.21 : Verse 21:View

अमी हि त्वां सुरसङ्घाः विशन्तिकेचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाःस्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।11.21।।

Bhagavad Gita 11.22 : Verse 22:View

रुद्रादित्या वसवो ये च साध्याविश्वेऽश्िवनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।।

Bhagavad Gita 11.23 : Verse 23:View

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।।

Bhagavad Gita 11.24 : Verse 24:View

नभःस्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो।।11.24।।

Bhagavad Gita 11.25 : Verse 25:View

दंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्मप्रसीद देवेश जगन्निवास।।11.25।।

Bhagavad Gita 11.26,27 : Verse 26,27:View

अमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौसहास्मदीयैरपि योधमुख्यैः।।11.26।।

वक्त्राणि ते त्वरमाणा विशन्तिदंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषुसंदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।

Bhagavad Gita 11.28 : Verse 28:View

यथा नदीनां बहवोऽम्बुवेगाःसमुद्रमेवाभिमुखाः द्रवन्ति।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।

Bhagavad Gita 11.29 : Verse 29:View

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः।।11.29।।

Bhagavad Gita 11.30 : Verse 30:View

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रंभासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।

Bhagavad Gita 11.31 : Verse 31:View

आख्याहि मे को भवानुग्ररूपोनमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यंन हि प्रजानामि तव प्रवृत्तिम्।।11.31।

Bhagavad Gita 11.32 : Verse 32:View

श्री भगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धोलोकान्समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यन्ति सर्वेयेऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।।

Bhagavad Gita 11.33 : Verse 33:View

तस्मात्त्वमुत्तिष्ठ यशो लभस्वजित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।।11.33।।

Bhagavad Gita 11.34 : Verse 34:View

द्रोणं च भीष्मं च जयद्रथं चकर्णं तथाऽन्यानपि योधवीरान्।
मया हतांस्त्वं जहि मा व्यथिष्ठायुध्यस्व जेतासि रणे सपत्नान्।।11.34।।

Bhagavad Gita 11.35 : Verse 35:View

सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्यकृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णंसगद्गदं भीतभीतः प्रणम्य।।11.35।।

Bhagavad Gita 11.36 : Verse 36:View

अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।।

Bhagavad Gita 11.37 : Verse 37:View

कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्।।11.37।।

Bhagavad Gita 11.38 : Verse 38:View

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्।
वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप।।11.38।।

Bhagavad Gita 11.39 : Verse 39:View

वायुर्यमोऽग्निर्वरुणः शशाङ्कःप्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमस्ते।।11.39।।

Bhagavad Gita 11.40 : Verse 40:View

नमः पुरस्तादथ पृष्ठतस्तेनमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वंसर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।।

Bhagavad Gita 11.41,42 : Verse 41,42:View

सखेति मत्वा प्रसभं यदुक्तंहे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदंमया प्रमादात्प्रणयेन वापि।।11.41।।

यच्चावहासार्थमसत्कृतोऽसिविहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षंतत्क्षामये त्वामहमप्रमेयम्।।11.42।।

Bhagavad Gita 11.43 : Verse 43:View

पितासि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।

Bhagavad Gita 11.44 : Verse 44:View

तस्मात्प्रणम्य प्रणिधाय कायंप्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युःप्रियः प्रियायार्हसि देव सोढुम्।।11.44।।

Bhagavad Gita 11.45 : Verse 45:View

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वाभयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपंप्रसीद देवेश जगन्निवास।।11.45।।

Bhagavad Gita 11.46 : Verse 46:View

किरीटिनं गदिनं चक्रहस्त मिच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।।11.46।।

Bhagavad Gita 11.47 : Verse 47:View

श्री भगवानुवाच
मया प्रसन्नेन तवार्जुनेदंरूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यंयन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।

Bhagavad Gita 11.48 : Verse 48:View

न वेदयज्ञाध्ययनैर्न दानै र्न च क्रियाभिर्न तपोभिरुग्रैः।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।।

Bhagavad Gita 11.49 : Verse 49:View

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य।।11.49।।

Bhagavad Gita 11.50 : Verse 50:View

सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।

Bhagavad Gita 11.51 : Verse 51:View

अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।

Bhagavad Gita 11.52 : Verse 52:View

श्री भगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।।11.52।।

Bhagavad Gita 11.53 : Verse 53:View

नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।।

Bhagavad Gita 11.54 : Verse 54:View

भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन।
ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।।

Bhagavad Gita 11.55 : Verse 55:View

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।।11.55।।

WhatsApp chat