KRISHNA KUNJ, 14/E/63, Mansarovar yojna, Sector 1, Jaipur-302020
+91 9799648308

Chapter 1

Arjun Viṣhād Yog
इस अध्याय में गलत ममता के प्रभाव का बड़ा ही विषद वर्णन किया है। पहले तो धृतराष्ट्र की गलत ममता के कारण महान विनाषकारी महाभारत का युद्ध हुआ; फिर जब अर्जुन युद्ध के मैदान में एकत्रित योद्धाओं को स्वजनों के रूप में देखकर उनसे ममता कर बैठता है, तब वह मोहित हो जाता है। अब वह उल्टी-उल्टी बातें करने लगता है और सबको युद्ध के लिये आमंत्रित करके श्री कृष्ण से स्पष्ट रूप से कह देता है कि वह युद्ध नहीं करेगा। इस समय उसमें शोक पूरी तरह से व्याप्त था।

This chapter gives a very vivid picture of the effect of wrong sense of attachment. The battle of Mahabharat took place due to Dhritrashtra’s misplaced attitude of attachment with his sons, Kauravas. Later when Arjun sees the warriors assembled in the battlefield as his kinsmen he develops a sense of attachment for them and thus gets deluded. In this deluded state he utters words which were completely contrary to the truth. After inviting all the warriors for the war he tells Krishna in very clear terms that he would not fight. At this time he was full of sorrow.

Bhagavad Gita 1.1 : Verse 1:View

धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1||

Bhagavad Gita 1.2 : Verse 2:View

सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। 2।।

Bhagavad Gita 1.3 : Verse 3:View

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।3।।

Bhagavad Gita 1.4,5,6 : Verse 4,5,6:View

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ।।4।।

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्‌ ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङवः ।।5।।

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्‌ ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ।।6।।

Bhagavad Gita 1.7 : Verse 7:View

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ।।7।।

Bhagavad Gita 1.8 : Verse 8:View

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ।।8।।

Bhagavad Gita 1.9 : Verse 9:View

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।।9।।

Bhagavad Gita 1.10 : Verse 10:View

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌ ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ।। 10।।

Bhagavad Gita 1.11 : Verse 11:View

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ।।1.11।।

Bhagavad Gita 1.12 : Verse 12:View

दोनों सेनाओं की शंख-ध्वनि का वर्णन

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शंख दध्मो प्रतापवान्‌ ।। 12।।

Bhagavad Gita 1.13 : Verse 13:View

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्‌ ।। 13।।

Bhagavad Gita 1.14 : Verse 14:View

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः।। 14।।

Bhagavad Gita 1.15 : Verse 15:View

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशंख भीमकर्मा वृकोदरः ।। 15।।

Bhagavad Gita 1.16 : Verse 16:View

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।। 16।।

Bhagavad Gita 1.17,18 : Verse 17,18:View

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।। 17।।

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक्‌ ।। 18।।

Bhagavad Gita 1.19 : Verse 19:View

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्‌ ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्‌ ।। 19।।

Bhagavad Gita 1.20 : Verse 20:View

अर्जुन का सैन्य परिक्षण, गाण्डीव की विशेषता

अर्जुन उवाचः
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्‌ कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ।। 20।।

Bhagavad Gita 1.21,22 : Verse 21,22:View

अर्जुन उवाच
हृषीकेशं तदा वाक्यमिदमाह महीपते।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ।।21।।

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्‌ ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ।।22।।

Bhagavad Gita 1.23 : Verse 23:View

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥23॥

Bhagavad Gita 1.24,25 : Verse 24,25:View

संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्‌ ।। 24।।

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।
उवाच पार्थ पश्यैतान्‌ समवेतान्‌ कुरूनिति ।। 25।।

Bhagavad Gita 1.26,27 : Verse 26,27:View

तत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्।
आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27।।

Bhagavad Gita 1.28,29,30 : Verse 28,29,30:View

अर्जुन उवाच

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।।

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।।

Bhagavad Gita 1.31 : Verse 31:View

निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।।

Bhagavad Gita 1.32 : Verse 32:View

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।1.32।।

Bhagavad Gita 1.33 : Verse 33:View

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।।

Bhagavad Gita 1.34,35 : Verse 34,35:View

आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्चशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।1.34।।

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।1.35।।

Bhagavad Gita 1.36 : Verse 36:View

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।1.36।।

Bhagavad Gita 1.37 : Verse 37:View

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।।1.37।।

Bhagavad Gita 1.38,39 : Verse 38,39:View

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।138।।
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।1.39।।

Bhagavad Gita 1.40 : Verse 40:View

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।1.40।।

Bhagavad Gita 1.41 : Verse 41:View

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।।

Bhagavad Gita 1.42 : Verse 42:View

सङ्करो नरकायैव कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।

Bhagavad Gita 1.43 : Verse 43:View

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।।

Bhagavad Gita 1.44 : Verse 44:View

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।।

Bhagavad Gita 1.45 : Verse 45:View

अहो बत महत्पापं कर्तुं व्यवसिता वयम्।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।1.45।।

Bhagavad Gita 1.46 : Verse 46:View

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।1.46।।

Bhagavad Gita 1.47 : Verse 47:View

सञ्जय उवाच
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः।।1.47।।